|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.53. अध्यायः 053
Mahabharata - Adi Parva - Chapter Topics
ऋत्विगादिनामकथनम्॥ 1 ॥ इन्द्रकृतं तक्षकाश्वासनम्॥ 2 ॥ वासुकेः स्वभगिन्या संवादः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
शौनक उवाच। 1-53-0x(252)(2184)
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः।
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः॥ 1-53-1(2185)
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे।
विषादजननेऽत्यर्थं पन्नगानां महाभय॥ 1-53-2(2186)
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति।
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज॥ 1-53-3(2187)
सौतिरुवाच। 1-53-4x(253)
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्।
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा॥ 1-53-4(2188)
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः।
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः॥ 1-53-5(2189)
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः।
ब्र्हमाऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः॥ 1-53-6(2190)
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्।
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः॥ 1-53-7(2191)
असितो देवलश्चैव नारदः पर्वतस्तथा।
आत्रेयः कुम्डजठरौ द्विजः कालघटस्तथा॥ 1-53-8(2192)
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्।
कोहलो देवशर्मा च मौद्गल्यः समसौरभः॥ 1-53-9(2193)
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः।
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह॥ 1-53-10(2194)
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ।
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः॥ 1-53-11(2195)
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः।
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा॥ 1-53-12(2196)
पततां चैव नागानां धिष्ठितानां तथाम्बरे।
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्॥ 1-53-13(2197)
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्।
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥ 1-53-14(2198)
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः।
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्॥ 1-53-15(2199)
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक।
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन॥ 1-53-16(2200)
प्रसादितो मया पूर्वं तवार्थाय पितामहः।
तस्मात्तव भयं नास्ति व्येतु तेनसो ज्वरः॥ 1-53-17(2201)
सौतिरुवाच। 1-53-18x(254)
एवमाश्वासितस्तेन ततः स भुजगोत्तमः।
उवास भवने तस्मिञ्शक्रस्य मुदितः सुखी॥ 1-53-18(2202)
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः।
अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥ 1-53-19(2203)
कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम्।
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्॥ 1-53-20(2204)
दह्यन्तेऽङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम्।
सीदामीव च संमोहाद्धूर्णतीव च मे मनः॥ 1-53-21(2205)
दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च।
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥ 1-53-22(2206)
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया।
व्यक्तं मयाऽभिगन्तव्यं प्रेतराजनिवेशनम्॥ 1-53-23(2207)
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः।
जरत्करौ(पुरा)मयादत्तात्रायस्वास्मान्सबान्धवान्॥ 1-53-24(2208)
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे।
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥ 1-53-25(2209)
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्।
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥ ॥ 1-53-26(2210)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिपञ्चाशत्तमोऽध्यायः॥ 53 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-53-2 सदस्या उपद्रष्टारः॥ 1-53-3 विधानज्ञेषु विज्ञेयाः श्रेष्ठाः॥ 1-53-13 पच्यतां पच्यमानानाम्॥ 1-53-15 आगः अपरांध कृत्वा॥ त्रिपञ्चाशत्तमोऽध्यायः॥ 53 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|